वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣡मु꣢ त्वा नू꣣न꣡म꣢सुर꣣ प्र꣡चे꣢तस꣣ꣳ रा꣡धो꣢ भा꣣ग꣡मि꣢वेमहे । म꣣ही꣢व꣣ कृ꣡त्तिः꣢ शर꣣णा꣡ त꣢ इन्द्र꣣ प्र꣡ ते꣢ सु꣣म्ना꣡ नो꣢ अश्नवन् ॥१४१२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तमु त्वा नूनमसुर प्रचेतसꣳ राधो भागमिवेमहे । महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥१४१२॥

मन्त्र उच्चारण
पद पाठ

तम् । उ꣣ । त्वा । नून꣢म् । अ꣢सुर । अ । सुर । प्र꣡चे꣢꣯तसम् । प्र । चे꣢तसम् । रा꣡धः꣢꣯ । भा꣣ग꣢म् । इ꣣व । ईमहे । मही꣢ । इ꣣व । कृ꣡त्तिः꣢꣯ । श꣣रणा꣢ । ते꣣ । इन्द्र । प्र꣢ । ते꣣ । सुम्ना꣢ । नः꣣ । अश्नवन् ॥१४१२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1412 | (कौथोम) 6 » 2 » 12 » 2 | (रानायाणीय) 12 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा, राजा और आचार्य को कहते हैं।

पदार्थान्वयभाषाः -

हे (असुर) प्रशस्त प्राणोंवाले वा दोषों को दूर करनेवाले परमात्मन्, राजन् वा आचार्य ! (प्रचेतसम्) प्रकृष्ट चित्तवाले (तम् उ त्वा) उन प्रसिद्ध आपसे (नूनम्) निश्चय ही, हम (राधः) दिव्य और भौतिक ऐश्वर्य वा विद्या आदि धन (ईमहे) माँगते हैं, (भागम् इव) जैसे पुत्र पिता से दायभाग माँगता है। हे (इन्द्र) परमैश्वर्यवन् परमात्मन्, राजन् वा आचार्य ! (ते) आपकी (कृत्तिः) कीर्ति और (शरणा) शरण (मही इव) महती पृथिवी के समान विशाल है। (ते) आपके (सुम्ना) सुख (नः) हमें (अश्नवन्) प्राप्त हों। यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे परमेश्वर यशस्वी, शरणप्रदाता, सुखदाता, दोष दूर करनेवाला, प्राणदाता और धनदाता है, वैसे ही राजा और आचार्य को होना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मानं नृपतिमाचार्यं चाह।

पदार्थान्वयभाषाः -

हे (असुर) प्रशस्तप्राणवन् दोषाणां प्रक्षेप्तर्वा परमात्मन् नृपते आचार्य वा ! [असुशब्दात् प्रशस्तार्थे मत्वर्थीयो रः। यद्वा अस्यति प्रक्षिपति दोषादीनि यः सः। ‘असेरुरन्’ उ० १।४२ इति अस्यतेः उरन् प्रत्ययः।] (प्रचेतसम्) प्रकृष्टचित्तम् (तम् उ त्वा) तं प्रसिद्धं त्वाम् (नूनम्) निश्चयेन वयम् (राधः) दिव्यं भौतिकं च ऐश्वर्यम् विद्यादिधनं वा (ईमहे) याचामहे। [ईमहे याच्ञाकर्मा। निघं० ३।१९।] कथम् ? (भागम् इव) यथा पुत्रः पितुः सकाशात् दायांशं याचते तथा। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् नृपते आचार्य वा ! (ते) तव (कृत्तिः) कीर्तिः। [कृत्तिः कृन्ततेः यशो वा अन्नं वा। निरु० ५।२२।] (शरणा) शरणं च। [सुपां सुलुक्०। अ० ७।१।३९ इति सोराकारादेशः।] (मही इव) महती पृथिवीव विशाला वर्तते। (ते) तव (सुम्ना) सुम्नानि सुखानि (नः) अस्मान् (अश्नवन्) प्राप्नुवन्तु ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

यथा परमेश्वरो यशस्वी शरणप्रदाता सुखदाता दोषापहारकः प्राणदायको धनदश्चास्ति तथैव नृपतिनाऽऽचार्येण च भाव्यम् ॥२॥